- हिंदी / संस्कृत
- English
निर्वाण षट्कम
मनो-बुद्धि-अहंकार चित्तादि नाहं
न च श्रोत्र-जिह्वे न च घ्राण-नेत्रे ।
न च व्योम-भूमी न तेजो न वायु
चिदानंद-रूपं शिवो-हं शिवो-हं ॥ १॥
न च प्राण-संज्ञो न वै पञ्च-वायु:
न वा सप्त-धातुर्न वा पञ्च-कोष: ।
न वाक्-पाणी-पादौ न चोपस्थ पायु:
चिदानंद-रूपं शिवो-हं शिवो-हं ॥ २ ॥
न मे द्वेष-रागौ न मे लोभ-मोहौ
मदे नैव मे नैव मात्सर्य-भाव: ।
न धर्मो न चार्थो न कामो न मोक्ष:
चिदानंद-रूपं शिवो-हं शिवो-हं ॥ ३ ॥
न पुण्यं न पापं न सौख्यं न दु:खं
न मंत्रो न तीर्थं न वेदा न यज्ञा: ।
अहं भोजनं नैव भोज्यं न भोक्ता
चिदानंद-रूपं शिवो-हं शिवो-हं ॥ ४ ॥
न मे मृत्यु न मे जातिभेद:
पिता नैव मे नैव माता न जन्मो ।
न बन्धुर्न मित्र: गुरुर्नैव शिष्य:
चिदानंद-रूपं शिवो-हं शिवो-हं ॥ ५॥
अहं निर्विकल्पो निराकार रूपो
विभुत्त्वाच्च सर्वत्र सर्वेन्द्रियाणां ।
सदा मे समत्त्वं न मुक्तिर्न बंध:
चिदानंद रूपं शिवो-हं शिवो-हं॥ ६॥
शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं
Mano-buddhi-ahankāra chittādi nāhaṃ
Na cha śrotra-jihvē na cha ghrāṇa-netrē |
Na cha vyoma-bhūmi na tejo na vāyu
Chidānanda-rūpaṃ śivō-haṃ śivō-haṃ || 1 ||
Na cha prāṇa-saṃgyō na vai pañcha-vāyuḥ
Na vā saptadhātuḥ na vā pañcha-koṣaḥ |
Na vāk-pāṇī-pādau na chopastha-pāyuḥ
Chidānanda-rūpaṃ śivō-haṃ śivō-haṃ || 2 ||
Na mē dvēṣa-rāgau na mē lōbha-mōhau
Madē naiva mē naiva mātsarya-bhāvaḥ |
Na dharmō na chārthō na kāmō na mōkṣaḥ:
Chidānanda-rūpaṃ śivō-haṃ śivō-haṃ || 3 ||
Na puṇyaṃ na pāpaṃ na saukhyaṃ na duḥkhaṃ
Na mantraḥ na tīrthaṃ na vēdā na yajñāḥ |
Ahaṃ bhojanaṃ naiva bhojyaṃ na bhōktā
Chidānanda-rūpaṃ śivō-haṃ śivō-haṃ || 4 ||
Na mē mṛtyu na mē jātibhēdaḥ
Pitā naiva mē naiva mātā na janmō |
Na bandhuḥ na mitraḥ gurur naiva śiṣyaḥ:
Chidānanda-rūpaṃ śivō-haṃ śivō-haṃ || 5 ||
Ahaṃ nirvikalpō nirākāra rūpō
Vibhutvāccha sarvatra sarvēndriyāṇām |
Sadā mē samattvaṃ na muktiḥ na bandhaḥ:
Chidānanda rūpaṃ śivō-haṃ śivō-haṃ || 6 ||
Śivō’haṃ śivō’haṃ, śivō’haṃ śivō’haṃ, śivō’haṃ śivō’haṃ